लक्ष्मी नारायण कवचम् | Lakshmi Narayan Kavach

Lakshmi Narayan Kavach

॥ श्रीगणेशाय नमः ॥

श्रीभैरव उवाच ।

अधुना देवि वक्ष्यामि लक्ष्मीनारायणस्य ते ।

कवचं मन्त्रगर्भं च वज्रपञ्जरकाख्यया ॥ १॥

श्रीवज्रपञ्जरं नाम कवचं परमाद्भु तम् ।

रहस्यं सर्वदेवानां साधकानां विशेषतः ॥ २॥

यं धृत्वा भगवान् देवः प्रसीदति परः पुमान् ।

यस्य धारणमात्रेण ब्रह्मा लोकपिता महः ॥ ३॥

ईश्वरोऽहं शिवो भीमो वासवोऽपि दिवस्पतिः ।

सूर्यस्तेजोनिधिर्देवि चन्द्रर्मास्तारकेश्वरः ॥ ४॥

वायुश्च बलवांल्लोके वरुणो यादसाम्पतिः ।

कुबेरोऽपि धनाध्यक्षो धर्मराजो यमः स्मृतः ॥ ५॥

यं धृत्वा सहसा विष्णुः संहरिष्यति दानवान् ।

जघान रावणादींश्चदीं किं वक्ष्येऽहमतः परम् ॥ ६॥

कवचस्यास्य सुभगे कथितोऽयं मुनिः शिवः ।

त्रिष्टुप् छन्दो देवता च लक्ष्मीनारायणो मतः ॥ ७॥

रमा बीजं परा शक्तिस्तारं कीलकमीश्वरि ।

भोगापवर्गसिद्ध्यर्थं विनियोग इति स्मृतः ॥ ८॥

ॐ अस्य श्रीलक्ष्मीनारायणकवचस्य शिवः ऋषिः ।

त्रिष्टुप् छन्दः । श्रीलक्ष्मीनारायण देवता ।

श्रीं बीजं । ह्रीं शक्तिः । ॐ कीलकं ।

भोगापवर्गसिद्ध्यर्थे पाठे विनियोगः ।

अथ ध्यानम् ।

पूर्णेन्दुवदनं पीतवसनं कमलासनम् ।

लक्ष्म्या श्रितं चतुर्बाहुं लक्ष्मीनारायणं भजे ॥ ९॥

अथ कवचम् ।

ॐ वासुदेवोऽवतु मे मस्तकं सशिरोरुहम् ।

ह्रीं ललाटं सदा पातु लक्ष्मीविष्णुः समन्ततः ॥ १०॥

ह्सौः ह् नेत्रेऽवताल्लक्ष्मीगोविन्दो जगतां पतिः ।

ह्रीं नासां सर्वदा पातु लक्ष्मीदामोदरः प्रभुः ॥ ११॥

श्रीं मुखं सततं पातु देवो लक्ष्मीत्रिविक्रमः ।

लक्ष्मी कण्ठं सदा पातु देवो लक्ष्मीजनार्दनः ॥ १२॥

नारायणाय बाहू मे पातु लक्ष्मीगदाग्रजः ।

नमः पार्श्वौ सदा पातु लक्ष्मीनन्दैकनन्दनः ॥ १३॥

अं आं इं ईं पातु वक्षो ॐ लक्ष्मीत्रिपुरेश्वरः ।

उं ऊं ऋं ॠं पातु कुक्षिं ह्रीं लक्ष्मीगरुडध्वजः ॥ १४॥

लृं लॄं एं ऐं पातु पृष्ठं ह्सौः ह् लक्ष्मीनृसिंहकः ।

ओं औं अं अः पातु नाभिं ह्रीं लक्ष्मीविष्टरश्रवः ॥ १५॥

कं खं गं घं गुदं पातु श्रीं लक्ष्मीकैटभा न्तकः ।

चं छं जं झं पातु शिश्र्नं लक्ष्मी लक्ष्मी श्वरः प्रभुः ॥ १६॥

टं ठं डं ढं कटिं पातु नारायणाय ना यकः ।

तं थं दं धं पातु चोरू नमो लक्ष्मीजगत्पतिः ॥ १७॥

पं फं बं भं पातु जानू ॐ ह्रीं लक्ष्मीचतुर्भुजः ।

यं रं लं वं पातु जङ्घे ह्सौः ह् लक्ष्मीगदा धरः ॥ १८॥

शं षं सं हं पातु गुल्फौ ह्रीं श्रीं लक्ष्मीरथाङ्गभृत् ।

ळं क्षः पादौ सदा पातु मूलं लक्ष्मीसहस्रपात् ॥ १९॥

ङं ञं णं नं मं मे पातु लक्ष्मीशः सकलं वपुः ।

इन्द्रो मां पूर्वतः पातु वह्निर्वह्नौ सदावतु ॥ २०॥

यमो मां दक्षिणे पातु नैरृत्यां निरृतिश्च माम् ।

वरुणः पश्चिमेऽव्यान्मां वायव्येऽवतु मां मरुत् ॥ २१॥

उत्तरे धनदः पायादैशान्यामीश्वरोऽवतु ।

वज्रशक्तिदण्डखड्ग पाशयष्टिध्वजा ङ्किताः ॥ २२॥

सशूलाः सर्वदा पान्तु दिगीशाः परमार्थदाः ।

अनन्तः पात्वधो नित्यमूर्ध्वे ब्रह्मावता च्च माम् ॥ २३॥

दशदिक्षु सदा पातु लक्ष्मीनारायणः प्रभुः ।

प्रभाते पातु मां विष्णुर्मध्याह्ने वासुदेवकः ॥ २४॥

दामोदरोऽवतात् सायं निशादौ नरसिंहकः ।

सङ्कर्षणोऽर्धरात्रेऽव्यात् प्रभातेऽव्या त् त्रिविक्रमः ॥ २५॥

अनिरुद्धः सर्वकालं विश्वक्सेनश्च सर्वतः ।

रणे राजकुले द्यु ते विवादे शत्रुसङ्कटे

ॐ ह्रीं ह्सौः ह् ह्रीं श्रीं मूलं लक्ष्मीनारायणोऽवतु ॥ २६॥

ॐॐॐरणराजचौररिपुतः पायाच्च मां केशवः

ह्रींह्रीं ह्रीं ह्रीं ह्रीं हह्रीं ह्हा ह् ह्सौः ह् ह्सह् ह्सौः ह् वह्नेर्वतान्माधवः ।

ह्रींह्रीं ह्रीं ह्रीं ह्रीं जलप ह्रीं र्वताग्निभयतः पायादनन्तो विभुः

श्रींश्रीं श्रीं श्रीं श्रीं शशश्रीं शाललं प्रतिदिनं लक्ष्मीधवः पातु माम् ॥ २७॥

इतीदं कवचं दिव्यं वज्रपञ्जरकाभिधम् ।

लक्ष्मीनारायणस्येष्टं चतुर्वर्गफलप्रदम् ॥ २८॥

सर्वसौभाग्यनिलयं सर्वसारस्वतप्रदम् ।

लक्ष्मीसंवननं तत्वं परमार्थरसायनम् ॥ २९॥

मन्त्रगर्भं जगत्सारं रहस्यं त्रिदिवौकसाम् ।

दशवारं पठेद्रात्रौ रतान्ते वैष्णवोत्तमः ॥ ३०॥

स्वप्ने वरप्रदं पश्येल्लक्ष्मीनारायणं सुधीः ।

त्रिसन्ध्यं यः पठेन्नित्यं कवचं मन्मुखोदितम् ॥ ३१॥

स याति परमं धाम वैष्णवं वैष्णवेश्वरः ।

महाचीनपदस्थोऽपि यः पठेदात्मचिन्तकः ॥ ३२॥

आनन्दपूरितस्तूर्णं लभेद् मोक्षं स साधकः ।

गन्धाष्टकेन विलिखेद्रवौ भूर्जे जपन्मनुम् ॥ ३३॥

पीतसूत्रेण संवेष्ट्य सौवर्णेनाथ वेष्टयेत् ।

धारयेद्गु टिकां मूर्ध्नि लक्ष्मीनारायणं स्मरन् ॥ ३४॥

रणे रिपुन् विजित्याशु कल्याणी गृहमाविशेत् ।

वन्ध्या वा काकवन्ध्या वा मृतवत्सा च याङ्गना ॥ ३५॥

सा बध्नीयान् कण्ठदेशे लभेत् पुत्रांश्चिरायुषः ।

गुरुपदेशतो धृत्वा गुरुं ध्यात्वा मनुं जपन् ॥ ३६॥

वर्णलक्षपुरश्चर्या फलमाप्नोति साधकः ।

बहुनोक्तेन किं देवि कवचस्यास्य पार्वति ॥ ३७॥

विनानेन न सिद्धिः स्यान्मन्त्रस्यास्य महेश्वरि ।

सर्वागमरहस्याढ्यं तत्वात् तत्वं परा त् परम् ॥ ३८॥

अभक्ताय न दातव्यं कुचैलाय दुरात्मने ।

दीक्षिताय कुलीनाय स्वशिष्याय महात्मने ॥ ३९॥

महाचीनपदस्थाय दातव्यं कवचोत्तमम् ।

गुह्यं गोप्यं महादेवि लक्ष्मीनारायणप्रियम् ।

वज्रपञ्जरकं वर्म गोपनीयं स्वयोनिवत् ॥ ४०॥

॥ इति श्रीरुद्रयामले तन्त्रे श्रीदेवीरहस्ये

लक्ष्मीनारायणकवचं सम्पूर्णम् ॥

Lakshmi Narayan Kavach

हे सुद्धा वाचा : वसुबारस पूजा कशी करावी ?  काय करावे काय टाळावे ?

Sharing Is Caring:
       

Leave a Comment